Chapter 9 · Verse 34

Yoga through the King of Sciences

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः
man-manā mad-bhakto mad-yājī māṁ evaiṣhyasi yuktvaivam ātmānaṁ

Word Meanings

mat-manāḥ bhava mat bhaktaḥ mat yājī mām namaskuru mām eva eṣhyasi yuktvā evam ātmānam mat-parāyaṇaḥ

Translation

No translations available for this language.

Commentary

।।9.34।। भजनप्रकारं दर्शयन्नुपसंहरति -- मन्मना इति। मय्येव मनो यस्य स मन्मनास्त्वं भव। तथैव ममैव भक्तः मत्सेवको भव। मद्याजी मद्यजनशीलो भव। मामेव च नमस्कुरु। एवमेभिः प्रकारैर्मत्परायणः सन्नात्मानं मनो मयि युक्त्वा समाधाय मामेव परमानन्दरूपमेष्यसि प्राप्स्यसि।