Chapter 9 · Verse 30

Yoga through the King of Sciences

अपि चेत्सुदुराचारो भजते मामनन्यभाक्। साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः
su-durāchāro sādhur sa samyag vyavasito

Word Meanings

api chet su-durāchāraḥ bhajate mām ananya-bhāk sādhuḥ eva saḥ mantavyaḥ samyak vyavasitaḥ hi saḥ

Translation

No translations available for this language.

Commentary

।।9.30।। अपिच मद्भक्तेरवितर्क्यः प्रभाव इति दर्शयन्नाह -- अपिचेदिति। अत्यन्तं दुराचारोऽपि यद्यप्यपृथक्त्वेन पृथग्देवता अपि वासुदेव एवेति बुद्ध्या नरो देवतान्तरभक्तिमकुर्वन्मामेव श्रीनारायणं भजते तर्हि साधुः श्रेष्ठ एव स मन्तव्यः। यतोऽसौ सम्यग्व्यवसितः परमेश्वरभजनेनैव कृतार्थो भविष्यामीति शोभनमध्यवसायं कृतवान्।