Chapter 9 · Verse 28

Yoga through the King of Sciences

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः। संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि
śhubhāśhubha-phalair evaṁ karma-bandhanaiḥ sannyāsa-yoga-yuktātmā vimukto

Word Meanings

śhubha aśhubha phalaiḥ evam mokṣhyase karma bandhanaiḥ sanyāsa-yoga yukta-ātmā vimuktaḥ mām upaiṣhyasi

Translation

No translations available for this language.

Commentary

।।9.28।। एवं च यत्फलं प्राप्स्यसि तच्छृणु -- शुभेति। एवं कुर्वन्कर्मबन्धनैः कर्मनिमित्तैरिष्टानिष्टैः फलैर्मुक्तो भविष्यसि। कर्मणां मयि समर्पितत्वेन तव तत्फलसंबन्धानुपपत्तेः। तैश्च विमुक्तः सन्संन्यासयोगयुक्तात्मा संन्यासः कर्मणां मदर्पणं स एव योगस्तेन युक्त आत्मा चित्तं यस्य तथाभूतस्त्वं मां प्राप्स्यसि।