Chapter 9 · Verse 25

Yoga through the King of Sciences

यान्ति देवव्रता देवान् पितृ़न्यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्
deva-vratā pitṛi-vratāḥ bhūtejyā mad-yājino ’pi

Word Meanings

yānti deva-vratāḥ devān pitṝīn yānti pitṛi-vratā bhūtāni yānti bhūta-ijyāḥ yānti mat yājinaḥ api mām

Translation

No translations available for this language.

Commentary

।।9.25।। तदेवोपपादयति -- यान्तीति। देवेष्विन्द्रादिषु व्रतं नियमो येषां ते अन्तवन्तो देवान्यान्ति अतः पुनरावर्तन्ते। पितृषु व्रतं येषां श्राद्धादिक्रियापराणां ते पितृ़न्यान्ति। भूतेषु विनायकमातृकादिष्विज्या पूजा येषां ते भूतानि यान्ति। मां यष्टुं शीलं येषां ते मद्याजिनस्ते तु मामक्षयं परमानन्दरूपं नारायणं यान्ति।