Chapter 9 · Verse 23

Yoga through the King of Sciences

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्
’pyanya-devatā-bhaktā śhraddhayānvitāḥ ’pi yajantyavidhi-pūrvakam

Word Meanings

ye api anya devatā bhaktāḥ yajante śhraddhayā anvitāḥ te api mām eva kaunteya yajanti avidhi-pūrvakam

Translation

No translations available for this language.

Commentary

।।9.23।।ननु च त्वद्व्यतिरेकेण वस्तुतो देवतान्तरस्याभावादिन्द्रादिसेविनोऽपि त्वद्भक्ता एवेति कथं ते गतागतं लभेरंस्तत्राह -- येऽपीति। श्रद्धयोपेता भक्ताः सन्तो येऽपि जना यज्ञेनान्यदेवता इन्द्रादिरूपा यजन्ते तेऽपि मामेव यजन्तीति सत्यम्? किंत्वविधिपूर्वकं मोक्षप्रापकं विधिं विना यजन्त्यतस्ते पुनरावर्तन्ते।