Chapter 9 · Verse 18

Yoga through the King of Sciences

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्। प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्
gatir śharaṇaṁ suhṛit sthānaṁ nidhānaṁ

Word Meanings

gatiḥ bhartā prabhuḥ sākṣhī nivāsaḥ śharaṇam su-hṛit prabhavaḥ pralayaḥ sthānam nidhānam bījam avyayam

Translation

No translations available for this language.

Commentary

।।9.18।।किंच -- गतिरिति। गम्यत इति गतिः। फलम्? भर्ता पोषणकर्ता? प्रभुः नियन्ता? साक्षी शुभाशुभद्रष्टा? निवासः भोगस्थानम्? शरणं रक्षकः?सुहृद्धितकर्ता? प्रकर्षेण भवत्यनेनेति प्रभवः स्रष्टा? प्रलीयतेऽनेनेति प्रलयः संहर्ता? तिष्ठन्त्यस्मिन्निति स्थानमाधारः? निधीयतेऽस्मिन्निति निधानं लयस्थानम्? बीजं कारणम्? तथाप्यव्ययमविनाशि नतु व्रीह्यादिबीजवन्नश्वरमित्यर्थः।