Chapter 9 · Verse 14

Yoga through the King of Sciences

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते
satataṁ kīrtayanto māṁ yatantaśh namasyantaśh māṁ nitya-yuktā

Word Meanings

satatam kīrtayantaḥ mām yatantaḥ cha dṛiḍha-vratāḥ namasyantaḥ cha mām bhaktyā nitya-yuktāḥ upāsate

Translation

No translations available for this language.

Commentary

।।9.14।।तेषां भजनप्रकारमाह -- सततमिति द्वाभ्याम्। सततं सर्वदा स्तोत्रमन्त्रादिभिः कीर्तयन्तः केचिन्मामुपासते सेवन्ते दृढानि व्रतानि नियमा येषां तादृशाः सन्तो यतन्तश्चेश्वरपूजादिषु इन्द्रियोपसंहारादिषु प्रयत्नं कुर्वन्तश्च केचिद्भक्त्या नमस्यन्तः प्रणमन्तश्चान्ये नित्ययुक्ता अनवरतमवहिताः सर्वे सेवन्ते भक्त्येति नित्ययुक्ता इति च कीर्तनादिष्वपि द्रष्टव्यम्।