Chapter 9 · Verse 11

Yoga through the King of Sciences

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्। परं भावमजानन्तो मम भूतमहेश्वरम्
māṁ mūḍhā mānuṣhīṁ paraṁ ajānanto bhūta-maheśhvaram

Word Meanings

avajānanti mām mūḍhāḥ mānuṣhīm tanum āśhritam param bhāvam ajānantaḥ mama bhūta mahā-īśhvaram

Translation

No translations available for this language.

Commentary

।।9.11।।नन्वेवंभूतं परमेश्वरं त्वां किमिति केचिन्नाद्रियन्ते तत्राह -- अवजानन्तीति द्वाभ्याम्। सर्वभूतमहेश्वररूपं मदीयं परं भावं तत्त्वमजानन्तो मूढा मूर्खा मामवजानन्त्यवमन्यन्ते। अवज्ञाने हेतुः शुद्धसत्वमयीमपि तनुं भक्तेच्छावशान्मनुष्याकारामाश्रितवन्तम्।