Chapter 13 · Verse 32

Yoga through Distinguishing the Field and the Knower of the Field

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः।शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते
anāditvān paramātmāyam śharīra-stho ’pi

Word Meanings

anāditvāt nirguṇatvāt parama ātmā ayam avyayaḥ śharīra-sthaḥ api kaunteya na karoti na lipyate

Translation

No translations available for this language.

Commentary

।।13.32।। तथापि परमेश्वरस्य संसारावस्थायां देहकर्मसंबन्धनिमित्तैः कर्मभिस्तत्फलैश्च सुखदुःखादिवैषम्यं दुष्परिहरमिति कुतः समदर्शनं तत्राह -- अनादित्वादिति। यदुत्पत्तिमत्तदेव हि व्येति विनाशमेति। यच्च गुणवद्वस्तु तस्य गुणनाशे व्ययो भवति। अयं तु परमात्मा अनादिर्निर्गुणश्चातोऽव्ययः। अविकारीत्यर्थः। तस्माच्छरीरे स्थितोऽपि किंचिन्न करोति? नच कर्मफलैर्लिप्यत इति।