Chapter 13 · Verse 27

Yoga through Distinguishing the Field and the Knower of the Field

यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्।क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ
sattvaṁ sthāvara-jaṅgamam kṣhetra-kṣhetrajña-sanyogāt tad bharatarṣhabha

Word Meanings

yāvat sañjāyate kiñchit sattvam sthāvara jaṅgamam kṣhetra kṣhetra-jña sanyogāt tat viddhi bharata-ṛiṣhabha

Translation

No translations available for this language.

Commentary

।।13.27।। तत्र कर्मयोगस्य तृतीयचतुर्थपञ्चमेषु प्रपञ्चितत्वात्? ध्यानयोगस्य च षष्ठाष्टमयोः प्रपञ्चितत्वात्? ध्यानादेश्च सांख्यविविक्तात्मविषयत्वात्सांख्यमेव प्रपञ्चयन्नाह -- यावदित्यादि। यावदध्यायसमाप्ति। यावत्किंचिद्वस्तुमात्रं सत्त्वमुत्पद्यते तत्सर्वं क्षेत्रक्षेत्रज्ञयोर्योगात् अविवेककृतात्तादात्म्याध्यासाद्भवतीति जानीहि।