Chapter 13 · Verse 22

Yoga through Distinguishing the Field and the Knower of the Field

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्।कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु
prakṛiti-stho kāraṇaṁ guṇa-saṅgo ’sya sad-asad-yoni-janmasu

Word Meanings

puruṣhaḥ prakṛiti-sthaḥ hi bhuṅkte prakṛiti-jān guṇān kāraṇam guṇa-saṅgaḥ asya sat-asat-yoni janmasu

Translation

No translations available for this language.

Commentary

।।13.22।।तथाप्यविकारिणो जन्मरहितस्य भोक्तृत्वं कथमित्यत आह -- पुरुष इति। हि यस्मात्प्रकृतिस्थः तत्कार्यदेहे तादात्म्येन स्थितः पुरुषः। अतस्तज्जनितान्सुखादीन्भुङ्क्ते। अस्य च पुरुषस्य सतीषु देवादियोनिषु? असतीषु तिर्यगादियोनिषु यानि जन्मानि तेषु गुणसङ्गः। गुणैः शुभाशुभकर्मकारिभिरिन्द्रियैः सङ्गः कारणमित्यर्थः।