Chapter 13 · Verse 19

Yoga through Distinguishing the Field and the Knower of the Field

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः।मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते
kṣhetraṁ jñānaṁ jñeyaṁ choktaṁ mad-bhakta etad mad-bhāvāyopapadyate

Word Meanings

iti kṣhetram tathā jñānam jñeyam cha uktam samāsataḥ mat-bhaktaḥ etat vijñāya mat-bhāvāya upapadyate

Translation

No translations available for this language.

Commentary

।।13.19।। उक्तं क्षेत्रादिकमधिकारिफलसहितमुपसंहरति -- इतीति। इत्येवं क्षेत्रं महाभूतादिधृत्यन्तं तथा ज्ञानं च अमानित्वादितत्त्वज्ञानार्थदर्शनान्तम्। ज्ञेयं चअनादिमत्पर ब्रह्म इत्यादिविष्ठितम् इत्यन्तम्। वसिष्ठादिभिर्विस्तरेणोक्तं सर्वमपि मया संक्षेपेणोक्तम्। एतच्च पूर्वाध्यायोक्तलक्षणो मद्भक्तो विज्ञाय मद्भावाय ब्रह्मत्वायोपपद्यते योग्यो भवति।