Chapter 17 · Verse 4

Yoga through Discerning the Three Divisions of Faith

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः।प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः
sāttvikā yakṣha-rakṣhānsi pretān bhūta-gaṇānśh chānye tāmasā

Word Meanings

yajante sāttvikāḥ devān yakṣha rakṣhānsi rājasāḥ pretān-bhūta-gaṇān cha anye yajante tāmasāḥ janāḥ

Translation

No translations available for this language.

Commentary

।।17.4।।सात्त्विकादिभेदमेव कार्यभेदेन प्रपञ्चयति -- यजन्त इति। सात्त्विका जनाः सत्त्वप्रकृतीन्देवानेव यजन्ते पूजयन्ति। राजसास्तु रजःप्रकृतीन्यक्षान्राक्षसांश्च यजन्ते। एतेभ्योऽन्ये तु विलक्षणास्तामसा जनास्तामसानेव प्रेतान्भूतगणांश्च यजन्ते। सत्त्वादिप्रकृतीनां तत्तद्देवतानां तु पूजारुचिभिस्तत्तत्पूजकानां सात्त्विकत्वादि ज्ञातव्यमित्यर्थः।