Chapter 17 · Verse 28

Yoga through Discerning the Three Divisions of Faith

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह
hutaṁ dattaṁ tapas taptaṁ kṛitaṁ asad ity no

Word Meanings

aśhraddhayā hutam dattam tapaḥ taptam kṛitam cha yat asat iti uchyate pārtha na cha tat pretya na u iha

Translation

No translations available for this language.

Commentary

।।17.28।।इदानीं सर्वकर्मसु श्रद्धयैव प्रवृत्त्यर्थमश्रद्धाकृतं सर्वं निन्दति -- अश्रद्धयेति। अश्रद्धया हुतं हवनं? दत्तं दानं? तप्तं निर्वर्तितं तपः। यच्चान्यदपि कृतं कर्म तत्सर्वमसदित्युच्यते। यतस्तत्प्रेत्य लोकान्तरे न फलति विगुणत्वात्। नो इह न चास्मिंल्लोके फलति? अयशस्करत्वात्।