Chapter 17 · Verse 26

Yoga through Discerning the Three Divisions of Faith

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते।प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते
sad-bhāve sad ity sach-chhabdaḥ

Word Meanings

sat-bhāve sādhu-bhāve cha sat iti etat prayujyate praśhaste karmaṇi tathā sat-śhabdaḥ pārtha yujyate

Translation

No translations available for this language.

Commentary

।।17.26।।सच्छब्दस्य प्राशस्त्यमाह -- सद्भाव इति द्वाभ्याम्। सद्भावे अस्तित्वे देवदत्तस्य पुत्रादिकमस्तीत्यस्मिन्नर्थे? साधुभावे च साधुत्वे देवदत्तस्य पुत्रादिश्रेष्ठमित्यस्मिन्नर्थे सदित्येतत्पदं प्रयुज्यते। प्रशस्ते माङ्गलिके विवाहादिकर्मणि च सदिदं कर्मेति सच्छब्दो युज्यते प्रयुज्यते संगच्छत इति वा।