Chapter 17 · Verse 24

Yoga through Discerning the Three Divisions of Faith

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः।प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्
tasmād oṁ ity yajña-dāna-tapaḥ-kriyāḥ vidhānoktāḥ satataṁ

Word Meanings

tasmāt om iti udāhṛitya yajña dāna tapaḥ kriyāḥ pravartante vidhāna-uktāḥ satatam brahma-vādinām

Translation

No translations available for this language.

Commentary

।।17.24।।इदानीं प्रत्येकमोंकारादीनां प्राशस्त्यं दर्शयिष्यन्नोंकारस्य तदेवाह -- तस्मादिति। यस्मादेवं ब्रह्मणो निर्देशः प्रशस्तस्तस्मादोमित्युदाहृत्य उच्चार्य कृता वेदवादीनां यज्ञाद्याः शास्त्रोक्ताः क्रियाः सततं सर्वदा अङ्गवैकल्येऽपि प्रकर्षेण वर्तन्ते। सगुणा भवन्तीत्यर्थः।