Chapter 17 · Verse 2

Yoga through Discerning the Three Divisions of Faith

श्री भगवानुवाचत्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु
śhrī-bhagavān uvācha dehināṁ svabhāva-jā chaiva cheti tāṁ

Word Meanings

śhrī-bhagavān uvācha tri-vidhā bhavati śhraddhā dehinām sva-bhāva-jā sāttvikī rājasī cha eva tāmasī cha iti tām śhṛiṇu

Translation

No translations available for this language.

Commentary

।।17.2।।अत्रोत्तरं श्रीभगवानुवाच -- त्रिविधेति। अयमर्थःशास्त्रतत्त्वज्ञानतः प्रवर्तमानानां परमेश्वरपूजाविषया सात्त्विकी एकविधैव श्रद्धा। लोकाचारमात्रेण तु प्रवर्तमानानां देहिनां या श्रद्धा सा तु सात्त्विकी राजसी तामसी चेति त्रिविधा भवति। तत्र हेतुः। स्वभावजा स्वभावः पूर्वकर्मसंस्कारस्तस्माज्जाता स्वभावजा। स्वभावमन्यथा कर्तुं समर्थं हि शास्त्रोक्तं विवेकज्ञानं तत्तु तेषां नास्ति? अतः केवलं स्वभावेनैव भवतीति श्रद्धा त्रिविधा भवति? तामिमां त्रिविधां श्रद्धां श्रृणु। तदुक्तम्व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन इत्यादिना।