Chapter 17 · Verse 17

Yoga through Discerning the Three Divisions of Faith

श्रद्धया परया तप्तं तपस्तत्ित्रविधं नरैः।अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते
taptaṁ tapas tri-vidhaṁ aphalākāṅkṣhibhir sāttvikaṁ

Word Meanings

śhraddhayā parayā taptam tapaḥ tat tri-vidham naraiḥ aphala-ākāṅkṣhibhiḥ yuktaiḥ sāttvikam parichakṣhate

Translation

No translations available for this language.

Commentary

।।17.17।।तदेवं शरीरवाङ्मनोभिर्निर्वर्त्यं त्रिविधं तपो दर्शितम्। त्रिविधस्यापि तपसः सात्त्विकादिभेदेन त्रैविध्यमाह -- श्रद्धयेति त्रिभिः। त्रिविधमपि तपः श्रेष्ठया श्रद्धया फलाकाङ्क्षाशून्यैर्युक्तैरेकाग्रचित्तैर्नरैस्तप्तं तत्सात्त्विकं कथयन्ति।