Chapter 17 · Verse 15

Yoga through Discerning the Three Divisions of Faith

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते
anudvega-karaṁ vākyaṁ satyaṁ priya-hitaṁ svādhyāyābhyasanaṁ chaiva vāṅ-mayaṁ tapa

Word Meanings

anudvega-karam vākyam satyam priya- hitam cha yat svādhyāya-abhyasanam cha eva vāṅ-mayam tapaḥ uchyate

Translation

No translations available for this language.

Commentary

।।17.15।।वाचिकं तप आह -- अनुद्वेगेति। उद्वेगं भयं न करोतीत्यनुद्वेगकरं वाक्यं? सत्यं च श्रोतुःप्रियं च हितं च परिणामे सुखकरम्? स्वाध्यायाभ्यसनं वेदाभ्यासश्च वाङ्मयं वाचा निर्वर्त्यं तपः।