Chapter 16 · Verse 16

Yoga through Discerning the Divine and Demoniac Natures

अनेकचित्तविभ्रान्ता मोहजालसमावृताः।प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ
aneka-citta-vibhrāntā moha-jāla-samāvṛtāḥ kāma-bhogeṣu 'śucau

Word Meanings

aneka citta-vibhrāntāḥ moha jāla samāvṛtāḥ prasaktāḥ kāma bhogeṣu patanti narake aśucau

Translation

No translations available for this language.

Commentary

।।16.16।। एवंभूता यत्प्राप्नुवन्ति तच्छृणु -- अनेकेति। अनेकेषु मनोरथेषु प्रवृत्तं चित्तमनेकचित्तं तेन विभ्रान्ताः विक्षिप्ताः मोहमयेन जालेन समावृताः? मत्स्या इव सूत्रमयेन जानेन यन्त्रिताः। एवं कामभोगेषु सक्ता अभिनिविष्टाः सन्तोऽशुचौ कश्मले नरके पतन्ति।