Chapter 16 · Verse 10

Yoga through Discerning the Divine and Demoniac Natures

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः।मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः
duṣhpūraṁ dambha-māna-madānvitāḥ mohād gṛihītvāsad-grāhān ’śhuchi-vratāḥ

Word Meanings

kāmam āśhritya duṣhpūram dambha māna mada-anvitāḥ mohāt gṛihītvā asat grāhān pravartante aśhuchi-vratāḥ

Translation

No translations available for this language.

Commentary

।।16.10।। अपिच -- काममिति। दुष्पूरं पूरयितुमशक्यं काममाश्रित्य दम्भादिभिर्युक्ताः सन्तः क्षुद्रदेवताराधनादौ प्रवर्तन्ते।,कथम्। असद्ग्राहान्गृहीत्वाऽनेन मन्त्रेणैतां देवतामाराध्य महानिधीन्साधयिष्याम् इत्यादिदुराग्रहान्मोहमात्रेण स्वीकृत्य प्रवर्तन्ते। अशुचिव्रता अशुचीनि मद्यमांसादिविषयाणि व्रतानि येषां ते।