Chapter 11 · Verse 9

Yoga through Beholding the Cosmic Form of God

सञ्जय उवाच एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः। दर्शयामास पार्थाय परमं रूपमैश्वरम्
sañjaya uvācha tato mahā-yogeśhvaro darśhayām āsa paramaṁ rūpam aiśhwaram

Word Meanings

sañjayaḥ uvācha evam uktvā tataḥ rājan mahā-yoga-īśhvaraḥ hariḥ darśhayām āsa pārthāya paramam rūpam aiśhwaram

Translation

No translations available for this language.

Commentary

।।11.9।। एवमुक्त्वा भगवानर्जुनाय रूपं दर्शितवान्। तच्च रूपं दृष्ट्वार्जुनः श्रीकृष्णं विज्ञापितवानितीममर्थं एवमुक्त्वेत्यादिभिः ष़ड्भिः श्लोकैर्धृतराष्ट्रं प्रति संजय उवाच -- एवमिति। हे राजन् धृतराष्ट्र? महांश्चासौ योगेश्वरश्च हरिः परममैश्वरं रूपं दर्शितवान्।