Chapter 11 · Verse 38

Yoga through Beholding the Cosmic Form of God

त्वमादिदेवः पुरुषः पुराण स्त्वमस्य विश्वस्य परं निधानम्। वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप
purāṇas viśhvasya paraṁ vettāsi vedyaṁ paraṁ tataṁ viśhvam

Word Meanings

tvam ādi-devaḥ puruṣhaḥ purāṇaḥ tvam asya viśhwasya param nidhānam vettā asi vedyam cha param cha dhāma tvayā tatam viśhwam ananta-rūpa

Translation

No translations available for this language.

Commentary

।।11.38।।किंच -- त्वमिति। त्वमादिदेवो देवानामादिः। यतः पुराणोऽनादिः पुरुषवस्त्वम्। अतएव त्वमस्य विश्वस्य परं निधानं लयस्थानम्? तथा विश्वस्य वेत्ता वेदिता ज्ञाता च त्वम्? यच्च वेद्यं वस्तुजातं परं च धाम वैष्णवं पदं तदपि त्वमेवासि। अतएव हे अनन्तरूप? त्वयैव विश्वमिदं ततं व्याप्तम्। एतैश्च सप्तभिर्हेतुभिस्त्वमेव नमस्कार्य इति भावः।