Chapter 11 · Verse 35

Yoga through Beholding the Cosmic Form of God

सञ्जय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी। नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य
sañjaya uvācha etach chhrutvā vachanaṁ kṛitāñjalir kirīṭī bhūya evāha kṛiṣhṇaṁ sa-gadgadaṁ

Word Meanings

sañjayaḥ uvācha etat śhrutvā vachanam keśhavasya kṛita-añjaliḥ vepamānaḥ kirītī namaskṛitvā bhūyaḥ eva āha kṛiṣhṇam sa-gadgadam bhīta-bhītaḥ praṇamya

Translation

No translations available for this language.

Commentary

।।11.35।। ततो यद्वृत्तं तद्धृतराष्ट्रं प्रति संजय उवाच -- एतदिति। एतत्पूर्वश्लोकत्रयात्मकं केशवस्य वचनं श्रुत्वा वेपमानः कम्पमानः किरीट्यर्जुनः कृताञ्जलिः संपुटीकृतहस्तः कुष्णं नमस्कृत्य पुनरप्याह उक्तवान्। कथमाह भयहर्षाद्यावेशवशाद्गद्गदेन कण्ठकम्पनेन सह वर्तत इति सगद्गदं यथा भवति तथा। किंच भीतादपि भीतः सन्प्रणम्यावनतो भूत्वा।