Chapter 11 · Verse 14

Yoga through Beholding the Cosmic Form of God

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः। प्रणम्य शिरसा देवं कृताञ्जलिरभाषत
sa vismayāviṣhṭo devaṁ kṛitāñjalir

Word Meanings

tataḥ saḥ vismaya-āviṣhṭaḥ hṛiṣhṭa-romā dhanañjayaḥ praṇamya śhirasā devam kṛita-añjaliḥ abhāṣhata

Translation

No translations available for this language.

Commentary

।।11.14।।एवं दृष्ट्वा किं कृतवानित्यत आह -- तत इति। ततो दर्शनानन्तरं विस्मयेनाविष्टो व्याप्तः सन्हृष्टान्युत्पुलकितानि रोमाणि यस्य स धनंजयो देवं तमेव शिरसा प्रणम्य कृताञ्जलिः संपुटीकृतहस्तो भूत्वाभाषत उक्तवान्।