Chapter 11 · Verse 12

Yoga through Beholding the Cosmic Form of God

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता। यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः
sūrya-sahasrasya bhaved yugapad syād bhāsas mahātmanaḥ

Word Meanings

divi sūrya sahasrasya bhavet yugapat utthitā yadi bhāḥ sadṛiśhī syāt bhāsaḥ tasya mahā-ātmanaḥ

Translation

No translations available for this language.

Commentary

।।11.12।। विश्वरूपदीप्तेर्निरुपमत्वमाह -- दिवीति। दिव्याकाशे सूर्यसहस्रस्य युगपदुत्थितस्य यदि युगपदुत्थिता भाः प्रभा भवेत् तर्हि सा तदा महात्मनो विश्वरूपस्य भासः प्रभायाः कथंचित्सृदशी स्यात्। नान्योपमास्तीत्यर्थः। तथाभूतं रूपं दर्शयामासेति पूर्वेणान्वयः।