Chapter 10 · Verse 9

Yoga through Appreciating the Infinite Opulences of God

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्। कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च
mach-chittā mad-gata-prāṇā kathayantaśh māṁ nityaṁ

Word Meanings

mat-chittāḥ mat-gata-prāṇāḥ bodhayantaḥ parasparam kathayantaḥ cha mām nityam tuṣhyanti cha ramanti cha

Translation

No translations available for this language.

Commentary

।।10.9।। प्रीतिपूर्वकं भजनमेवाह -- मच्चित्ता इति। मय्येव चित्तं येषां ते मच्चित्ताः। मामेव गताः प्राप्ताः प्राणा इन्द्रियाणि येषां ते मद्गतप्राणाः मदर्पितजीवना इति वा। एवंभूतास्ते बुधाः अन्योन्यं मां न्यायोपेतैः श्रुत्यादिप्रमाणैर्बोधयन्तः? बुद्ध्या च मां कथयन्तः संकीर्तयन्तः सन्तो नित्यं तुष्यन्त्यनुमोदनेन तुष्टिं यान्ति। रमन्ति च निर्वृत्तिं यान्ति।