Chapter 10 · Verse 31

Yoga through Appreciating the Infinite Opulences of God

पवनः पवतामस्मि रामः शस्त्रभृतामहम्। झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी
jhaṣhāṇāṁ makaraśh chāsmi

Word Meanings

pavanaḥ pavatām asmi rāmaḥ śhastra-bhṛitām aham jhaṣhāṇām makaraḥ cha asmi srotasām asmi jāhnavī

Translation

No translations available for this language.

Commentary

।।10.31।। पवन इति। पवतां पावयितृ़णां वेगवतां वा मध्ये वायुरस्मि। शस्त्रभृतां वीराणां रामो दाशरथिः। यद्वा परशुरामः। झषाणां मत्स्यानां मकरो मत्स्यविशेषस्तिमिंगिलः। स्रोतसां प्रवाहोदकानां मध्ये भागीरथी।