Chapter 2 · Verse 8

Transcendental Knowledge

न हि प्रपश्यामि ममापनुद्या द्यच्छोकमुच्छोषणमिन्द्रियाणाम्। अवाप्य भूमावसपत्नमृद्धम् राज्यं सुराणामपि चाधिपत्यम्
mamāpanudyād yach-chhokam uchchhoṣhaṇam-indriyāṇām bhūmāv-asapatnamṛiddhaṁ rājyaṁ surāṇāmapi chādhipatyam

Word Meanings

na hi prapaśhyāmi mama apanudyāt yat śhokam uchchhoṣhaṇam indriyāṇām avāpya bhūmau asapatnam ṛiddham rājyam surāṇām api cha ādhipatyam

Translation

No translations available for this language.

Commentary

।।2.8।।त्वमेव विचार्य यद्युक्तं तत्कुर्विति चेत्तत्राह नहीति। इन्द्रियाणामुच्छोषणमतिशोषणकरं मदीयं शोकं यत्कर्मापनुद्यादपनयेत्तदहं न प्रपश्यामि। यद्यपि भूमौ निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि। तथा सुरेन्द्रत्वमपि यदि प्राप्स्यामि। एवमभीष्टं तत्सर्वमवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्यन्वयः।