Chapter 2 · Verse 57

Transcendental Knowledge

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्। नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता
sarvatrānabhisnehas śhubhāśhubham nābhinandati

Word Meanings

yaḥ sarvatra anabhisnehaḥ tat tat prāpya śhubha aśhubham na abhinandati na dveṣhṭi tasya prajñā pratiṣhṭhitā

Translation

No translations available for this language.

Commentary

।।2.57।।कथं भाषेतेत्यस्योत्तरमाह य इति। यः सर्वत्र पुत्रादिष्वप्यनभिस्नेहः स्नेहशून्यः अतएव बाधितानुवृत्त्या तत्तच्छुभमनुकूलं प्राप्य नाभिनन्दति न प्रशंसति। अशुभं प्रतिकूलं प्राप्य न द्वेष्टि न निन्दति किंतु केवलमुदासीन एव भाषते तस्य प्रज्ञा प्रतिष्ठितेत्यर्थः।