Chapter 2 · Verse 48

Transcendental Knowledge

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते
saṅgaṁ siddhy-asiddhyoḥ samo samatvaṁ yoga

Word Meanings

yoga-sthaḥ kuru karmāṇi saṅgam tyaktvā dhanañjaya siddhi-asiddhyoḥ samaḥ bhūtvā samatvam yogaḥ uchyate

Translation

No translations available for this language.

Commentary

।।2.48।।किं तर्हि योगस्थ इति। योगः परमेश्वरैकपरता तत्र स्थितः कर्माणि कुरु। तथा सङ्गं कर्तृत्वाभिनिवेशं त्यक्त्वा केवलमीश्वराश्रयेणैव कुरु। तत्फलस्य ज्ञानस्यापि सिद्ध्यसिद्ध्योः समो भूत्वा केवलमीश्वरार्पणेनैव कुरु। यत एवंभूतं समत्वमेव योग उच्यते सद्भिः। चित्तसमाधानरूपत्वात्।