Chapter 2 · Verse 32

Transcendental Knowledge

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्। सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्
chopapannaṁ swarga-dvāram

Word Meanings

yadṛichchhayā cha upapannam swarga dvāram apāvṛitam sukhinaḥ kṣhatriyāḥ pārtha labhante yuddham īdṛiśham

Translation

No translations available for this language.

Commentary

।।2.32।।किंच महति श्रेयसि स्वयमेवोपगते सति कुतो विकम्पस इत्याह यद्दच्छयेति। यदृच्छयाऽप्रार्थितमेवोपपन्नं प्राप्तमीदृशं युद्धं सुखिनः सभाग्या एव लभन्ते। यतो निरावरणं स्वर्गद्वारमेवैतत्। यद्वा य एवंविधं युद्धं लभन्ते त एव सुखिन इत्यर्थः। एतेनस्वजनं हि कथं हत्वा सुखिनः स्याम इति यदुक्तं तन्निरस्तं भवति।