Chapter 2 · Verse 29

Transcendental Knowledge

आश्चर्यवत्पश्यति कश्चिदेन माश्चर्यवद्वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः श्रृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्
kaśhchid enan āśhcharya-vad tathaiva chānyaḥ āśhcharya-vach chainam śhrutvāpyenaṁ chaiva

Word Meanings

āśhcharya-vat paśhyati kaśhchit enam āśhcharya-vat vadati tathā eva cha anyaḥ āśhcharya-vat cha enam anyaḥ śhṛiṇoti śhrutvā api enam veda na cha eva kaśhchit

Translation

No translations available for this language.

Commentary

।।2.29।।कुतस्तर्हि विद्वांसोऽपि लोके शोचन्ति आत्माज्ञानादेवेत्याशयेनात्मनो दुर्विज्ञेयतामाह आश्चर्यवदिति। कश्चिदेनमात्मानं शास्त्राचार्योपदेशाभ्यां पश्यन्नाश्चर्यवत्पश्यति। सर्वगतस्य नित्यज्ञानानन्दस्वभावस्यात्मनोऽलौकिकत्वादैन्द्रजालिकवदघटमानं पश्यन्निव विस्मयेन पश्यति असंभावनाभिभूतत्वात्। तथा आश्चर्यवदन्यो वदति च शृणोति च। अन्य कश्चित्पुनर्विपरीतभावनाभिभूतः श्रुत्वापि नैव वेद। चशब्दादुक्त्वापि न सम्यग्वेदेति द्रष्टव्यम्।