Chapter 2 · Verse 26

Transcendental Knowledge

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्। तथापि त्वं महाबाहो नैवं शोचितुमर्हसि
chainaṁ nitya-jātaṁ nityaṁ tathāpi tvaṁ naivaṁ

Word Meanings

atha cha enam nitya-jātam nityam manyase mṛitam tathā api tvam mahā-bāho na evam śhochitum arhasi

Translation

No translations available for this language.

Commentary

।।2.26।।तदेवमात्मनो जन्मविनाशाभावान्न शोकः कार्य इत्युक्तम्। इदानीं देहेन सहात्मनो जन्म तद्विनाशेन च विनाशमङ्गीकृत्यापि शोको न कार्य इत्याह अथ चेति। अथ च यद्यप्येनमात्मानं नित्यं सर्वदा तत्तद्देहे जाते जातं मन्यसे तथा तद्देहे मृते मृतं मन्यसे पुण्यपापयोस्तत्फलभूतयोर्जन्ममरणयोरात्मगामित्वात् तथापि त्वं शोचितुं नार्हसि।