Chapter 2 · Verse 12

Transcendental Knowledge

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः। न चैव न भविष्यामः सर्वे वयमतः परम्
tvevāhaṁ nāsaṁ tvaṁ neme janādhipāḥ chaiva bhaviṣhyāmaḥ sarve vayamataḥ

Word Meanings

na tu eva aham jātu na āsam na tvam na ime jana-adhipāḥ na cha eva na bhaviṣhyāmaḥ sarve vayam ataḥ param

Translation

No translations available for this language.

Commentary

।।2.12।।अशोच्यत्वे हेतुमाह नत्वेवेति। यथाऽहं परमेश्वरो जातु कदाचिल्लीलाविग्रहस्याविर्भावे तिरोभावेऽपि नासमिति नैव अपितु आसमेव अनादित्वात्। नच त्वं नासीः नाभूः अपित्वासीरेव। इमेच जनाधिपाः नृपाः नासन्निति न अपितु आसन्नेव मदंशत्वात् तथाऽतःपरं इतउपर्यपि नभविष्यामो न स्थास्याम इति च नैव अपितु स्थास्याम एव। जन्ममरणशून्यत्वादशोच्या इत्यर्थः।