Chapter 15 · Verse 5

The Yoga of the Supreme Divine Personality

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः।द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै र्गच्छन्त्यमूढाः पदमव्ययं तत्
nirmāna-mohā jita-saṅga-doṣhā adhyātma-nityā vinivṛitta-kāmāḥ dvandvair sukha-duḥkha-sanjñair gachchhanty avyayaṁ

Word Meanings

niḥ māna mohāḥ jita saṅga doṣhāḥ adhyātma-nityāḥ vinivṛitta kāmāḥ dvandvaiḥ vimuktāḥ sukha-duḥkha saṁjñaiḥ gachchhanti amūḍhāḥ padam avyayam tat

Translation

No translations available for this language.

Commentary

।।15.5।। तत्प्राप्तौ साधनान्तराणि दर्शयन्नाह -- निर्मानेति। निर्गतौ मानमोहावहंकारमिथ्याभिनिवेशौ येभ्यस्ते? जितः पुत्रादिसङ्गरूपो दोषो यैस्ते? अध्यात्मे आत्मज्ञाने नित्याः परिनिष्ठिताः? विशेषेण निवृत्तः कामो येभ्यस्ते? सुखदुःखहेतुत्वात् सुखदुःखसंज्ञानि शीतोष्णादीनि द्वन्द्वानि तैर्विमुक्ताः? अतएवामूढाः निवृत्ताविद्याः सन्तस्तदव्ययं पदं वैष्णवं गच्छन्ति।