Chapter 15 · Verse 18

The Yoga of the Supreme Divine Personality

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः।अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः
atīto ’ham akṣharād chottamaḥ ato ’smi puruṣhottamaḥ

Word Meanings

yasmāt kṣharam atītaḥ aham akṣharāt api cha uttamaḥ ataḥ asmi loke vede cha prathitaḥ puruṣha-uttamaḥ

Translation

No translations available for this language.

Commentary

।।15.18।। एवंभूतं पुरुषोत्तमत्वमात्मनो नामनिर्वचनेन दर्शयति -- यस्मादिति। यस्मात्क्षरं जडवर्गमतिक्रान्तोऽहं नित्यमुक्तत्वात्? अक्षराच्चेतनवर्गादप्युत्तमश्च नियन्तृत्वात्? अतो लोके वेदे च पुरुषोत्तम इति प्रथितः प्रख्यातोऽस्मि। तथाच श्रुतिःस वा अयमात्मा सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति इत्यादिः।