Chapter 15 · Verse 15

The Yoga of the Supreme Divine Personality

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च।वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्
chāhaṁ sanniviṣhṭo smṛitir apohanaṁ vedaiśh sarvair vedyo vedānta-kṛid veda-vid chāham

Word Meanings

sarvasya cha aham hṛidi sanniviṣhṭaḥ mattaḥ smṛitiḥ jñānam apohanam cha vedaiḥ cha sarvaiḥ aham eva vedyaḥ vedānta-kṛit veda-vit eva cha aham

Translation

No translations available for this language.

Commentary

।।15.15।।किंच -- सर्वस्येति। सर्वस्य प्राणिजातस्य हृदि सम्यगन्तर्यामिरूपेण प्रविष्टोऽहम्। अतश्च मत्त एव हेतोः प्राणिमात्रस्य पूर्वानुभूतार्थविषया स्मृतिर्भवति। ज्ञानं च विषयेन्द्रियसंयोगजं भवति। अपोहनं च तयोः प्रमोषो भवति। वेदैश्च सर्वैस्तत्तद्देवतादिरूपेणाहमेव वेद्यः। वेदान्तकृत्तत्संप्रदायप्रवर्तकश्च ज्ञानदो गुरुरहमित्यर्थः। वेदविदेव च वेदार्थविदहमेव।