Chapter 12 · Verse 5

The Yoga of Devotion

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्। अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते
kleśho ’dhikataras avyaktāsakta-chetasām gatir duḥkhaṁ dehavadbhir

Word Meanings

kleśhaḥ adhika-taraḥ teṣhām avyakta āsakta chetasām avyaktā hi gatiḥ duḥkham deha-vadbhiḥ avāpyate

Translation

No translations available for this language.

Commentary

।।12.5।। ननु च तेऽपि त्वामेव प्राप्नुवन्ति तर्हीतरेषां युक्ततमत्वं कुत इत्यपेक्षायां क्लेशाक्लेशकृतं विशेषमाह -- क्लेश इति त्रिभिः। अव्यक्ते निर्विशेष अक्षर आसक्तं चेतो येषां तेषां क्लेशोऽधिकतरः। हि यस्मादव्यक्तविषया गतिर्निष्ठा देहाभिमानिभिः दुःखं यथाभवत्येवमवाप्यते। देहाभिमानिनां नित्यं प्रत्यक्प्रवणत्वस्य दुर्घटत्वादिति भावः।