Chapter 12 · Verse 10

The Yoga of Devotion

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव।मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि
’py asamartho ’si mat-karma-paramo mad-artham

Word Meanings

abhyāse api asamarthaḥ asi mat-karma paramaḥ bhava mat-artham api karmāṇi kurvan siddhim avāpsyasi

Translation

No translations available for this language.

Commentary

।।12.10।।यदि पुनर्नैवं तत्राह -- अभ्यास इति। अभ्यासेऽति यद्यशक्तोऽसि तर्हि मत्प्रीत्यार्थानि यानि कर्माण्येकादश्युपवासव्रतचर्यानामसंकीर्तनादीनि तदनुष्ठानमेव परमं यस्य तादृशो भव। एवंभूतानि कर्माण्यपि मदर्थं कुर्वन्मोक्षं प्राप्स्यसि।