Chapter 7 · Verse 25

Self-Knowledge and Enlightenment

नाहं प्रकाशः सर्वस्य योगमायासमावृतः। मूढोऽयं नाभिजानाति लोको मामजमव्ययम्
nāhaṁ yoga-māyā-samāvṛitaḥ mūḍho ’yaṁ nābhijānāti loko

Word Meanings

na aham prakāśhaḥ sarvasya yoga-māyā samāvṛitaḥ mūḍhaḥ ayam na abhijānāti lokaḥ mām ajam avyayam

Translation

No translations available for this language.

Commentary

।।7.25।।तेषां स्वाज्ञाने हेतुमाह नाहमिति। सर्वस्य लोकस्य नाहं प्रकाशः प्रकटो न भवामि किंतु मद्भक्तानामेव। यतो योगमायया समावृतः। योगो युक्तिः मदीयः कोऽप्यचिन्त्यप्रज्ञाविलासः स एव माया अघटमानघटनाचातुर्यं अनया संच्छन्नः अतएव मत्स्वरूपज्ञाने मूढः सन्नयं लोकः अजमव्ययं च मां न जानाति।