Chapter 7 · Verse 23

Self-Knowledge and Enlightenment

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्। देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि
antavat phalaṁ teṣhāṁ tad bhavatyalpa-medhasām deva-yajo mad-bhaktā

Word Meanings

anta-vat tu phalam teṣhām tat bhavati alpa-medhasām devān deva-yajaḥ yānti mat bhaktāḥ yānti mām api

Translation

No translations available for this language.

Commentary

।।7.23।।तदेव यद्यपि सर्वा अपि देवता ममैव मूर्तयः अतस्तदाराधनमपि वस्तुतो मदाराधनमेव तत्तत्फलदातापि चाहमेव तथापि साक्षान्मद्भक्तानां च तेषां फलवैषम्यं भवतीत्याह अन्तवत्त्विति। अल्पमेधसां परिच्छिन्नदृष्टीनां मया दत्तमपि तत्फलमन्तवद्विनाशि भवति। तदेवाह। देवान्यजन्तीति देवयजः ते देवानन्तवतो यान्ति। मद्भक्तास्तु मामनाद्यन्तं तं परमानन्दं प्राप्नुवन्ति।