Chapter 8 · Verse 8

Path of the Eternal God

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना। परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्
abhyāsa-yoga-yuktena nānya-gāminā paramaṁ puruṣhaṁ divyaṁ pārthānuchintayan

Word Meanings

abhyāsa-yoga yuktena chetasā na anya-gāminā paramam puruṣham divyam yāti pārtha anuchintayan

Translation

No translations available for this language.

Commentary

।।8.8।।संततस्मरणस्य चाभ्यासोऽन्तरङ्गसाधनमिति दर्शयन्नाह -- अभ्यासेति। अभ्यासः सजातीयप्रत्ययप्रवाहः स एव योग उपायस्तेन युक्तेनैकाग्रेण अतएव नान्यं विषयं गन्तुं शीलं यस्य तेन चेतसा दिव्यं द्योतनात्मकं परमं पुरुषं परमेश्वरमनुचिन्तयन् हे पार्थ तमेव यातीति।