Chapter 8 · Verse 5

Path of the Eternal God

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्। यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः
sa mad-bhāvaṁ nāstyatra

Word Meanings

anta-kāle cha mām eva smaran muktvā kalevaram yaḥ prayāti saḥ mat-bhāvam yāti na asti atra sanśhayaḥ

Translation

No translations available for this language.

Commentary

।।8.5।। प्रयाणकाले च कथं ज्ञेयोऽसीत्यनेन पृष्टमन्तकालज्ञानोपायं तत्फलं च दर्शयति -- अन्तकाल इति। मामेवोक्तलक्षणमन्तर्यामिरूपं परमेश्वरं स्मरन्देहं त्यक्त्वा यः प्रकर्षेणार्चिरादिमार्गेण याति स मद्भावं मद्रूपतां याति। अत्र च संशयो नास्ति। स्मरणं ज्ञानोपायो मद्भावापत्तिश्च फलमित्यर्थः।