Chapter 8 · Verse 22

Path of the Eternal God

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया। यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्
sa labhyas tvananyayā yasyāntaḥ-sthāni idaṁ

Word Meanings

puruṣhaḥ saḥ paraḥ pārtha bhaktyā labhyaḥ tu ananyayā yasya antaḥ-sthāni bhūtāni yena sarvam idam tatam

Translation

No translations available for this language.

Commentary

।।8.22।। तत्प्राप्तौ च भक्तिरन्तरङ्गोपाय इत्युक्तमेवाह -- पुरुष इति। स चाहं परः पुरुषोऽनन्यया न विद्यते अन्यः शरणत्वेन यस्यास्तया एकान्तभक्त्यैव लभ्यो नान्यथा। परत्वमेवाह। यस्य कारणभूतस्यान्तर्मध्ये भूतानि स्थितानि। येन च कारणभूतेन सर्वमिदं जगत्ततं व्याप्तम्।