Chapter 8 · Verse 2

Path of the Eternal God

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः
kathaṁ ko ’tra ’smin kathaṁ jñeyo ’si niyatātmabhiḥ

Word Meanings

adhiyajñaḥ katham kaḥ atra dehe asmin madhusūdana prayāṇa-kāle cha katham jñeyaḥ asi niyata-ātmabhiḥ

Translation

No translations available for this language.

Commentary

।।8.2।। किंच -- अधियज्ञ इति। अत्र देहे यो यज्ञो वर्तते तस्मिन्कोऽधियज्ञः। अधिष्ठाता प्रयोजकः फलदाता च क इत्यर्थः। स्वरूपं पृष्ट्वा अधिष्ठानप्रकारं पृच्छति। कथं केन प्रकारेणासावस्मिन्देहे स्थितो यज्ञमधितिष्ठतीत्यर्थः। यज्ञग्रहणं सर्वकर्मणामुपलक्षणार्थम्। अन्तकाले च नियतचित्तैः पुरुषैः कथं केनोपायेन ज्ञेयोऽसि।