Chapter 8 · Verse 19

Path of the Eternal God

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते। रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे
sa evāyaṁ bhūtvā bhūtvā rātryāgame ’vaśhaḥ prabhavatyahar-āgame

Word Meanings

bhūta-grāmaḥ saḥ eva ayam bhūtvā bhūtvā pralīyate rātri-āgame avaśhaḥ pārtha prabhavati ahaḥ-āgame

Translation

No translations available for this language.

Commentary

।।8.19।।तत्र च कृतनाशाकृताभ्यागमशङ्कां वारयन्वैराग्यार्थं सृष्टिप्रलयप्रवाहस्याविच्छेदं दर्शयति -- भूतेति। भूतानां चराचरप्राणिनां ग्रामः समूहो यः प्रागासीत्स एवायमहरागमे भूत्वा रात्रेरागमे प्रलीयते। प्रलीय पुनरप्यहरागमेऽवशः कर्मादिपरतन्त्रः प्रभवति। नान्य इत्यर्थः।