Chapter 8 · Verse 15

Path of the Eternal God

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्। नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः
punar duḥkhālayam nāpnuvanti mahātmānaḥ sansiddhiṁ paramāṁ

Word Meanings

mām upetya punaḥ janma duḥkha-ālayam aśhāśhvatam na āpnuvanti mahā-ātmānaḥ sansiddhim paramām gatāḥ

Translation

No translations available for this language.

Commentary

।।8.15।।यद्यप्येवं त्वं सुलभोऽसि ततः किमत आह -- मामिति। उक्तलक्षणा महात्मानो मद्भक्ता मां प्राप्य पुनर्दुःखाश्रयमनित्यं च जन्म न प्राप्नुवन्ति। यतस्ते परमां सम्यक्सिद्धिं मोक्षमेव प्राप्ताः पुनर्जन्म दुःखानां चालयं स्थानं ते मामुपेत्य न प्राप्नुवन्तीति वा।