Chapter 3 · Verse 9

Path of Selfless Service

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय मुक्तसंगः समाचर
yajñārthāt karmaṇo ’nyatra loko ’yaṁ tad-arthaṁ

Word Meanings

yajña-arthāt karmaṇaḥ anyatra lokaḥ ayam karma-bandhanaḥ tat artham karma kaunteya mukta-saṅgaḥ samāchara

Translation

No translations available for this language.

Commentary

।।3.9।।सांख्यास्तु सर्वमपि कर्म बन्धकत्वान्न कार्यमित्याहुस्तन्निराकुर्वन्नाह यज्ञार्थादिति। यज्ञोऽत्र विष्णुः।यज्ञो वै विष्णुःइति श्रुतेः। तदाराधनार्थात्कर्मणोऽन्यत्र तदेकं विनाऽयं लोकः कर्मबन्धनः कर्मभिर्बध्यते न त्वीश्वराराधनार्थेन कर्मणा। अतस्तदर्थ विष्णुप्रीत्यर्थं मुक्तसङ्गो निष्कामः सन्कर्म सम्यगाचर।