Chapter 3 · Verse 5

Path of Selfless Service

न हि कश्िचत्क्षणमपि जातु तिष्ठत्यकर्मकृत्। कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः
tiṣhṭhatyakarma-kṛit hyavaśhaḥ prakṛiti-jair

Word Meanings

na hi kaśhchit kṣhaṇam api jātu tiṣhṭhati akarma-kṛit kāryate hi avaśhaḥ karma sarvaḥ prakṛiti-jaiḥ guṇaiḥ

Translation

No translations available for this language.

Commentary

।।3.5।। कर्मणां च संन्यासस्तेष्वनासक्तिमात्रं न तु स्वरुपेणा शक्यत्वादित्याह नहीति। जातु कास्यांचिदवस्थायां क्षणमात्रमपि कश्चिदपि ज्ञानी वाऽज्ञो वा अकर्मकृत्कर्माण्यकुर्वाणो न तिष्ठति। तत्र हेतुः प्रकृतिजैः स्वाभावप्रभवै राग्द्वेषादिगुणैः सर्वोऽपि जनः कर्म कार्यते कर्मणि प्रवर्तते अवशोऽस्वतन्त्रः सन्।